(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.35. अध्यायः 035
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति सुधन्वविरोचनसंवादादिकथनपूर्वकं पाण्डवेषु पुत्रतौल्येन वृत्तिविधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

धृतराष्ट्र उवाच। 5-35-0x(3452)(32924)
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः।
श्रृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ 5-35-1(32925)
विदुर उवाच। 5-35-2x(3453)
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्।
उभे त्वेते समे स्यातामार्जवं वा विशिष्यते। 5-35-2(32926)
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 5-35-3(32927)
यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते॥ 5-35-4(32928)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ 5-35-5(32929)
स्वयंवरे स्थिता कन्या केशिनी नाम नामतः।
रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया ॥ 5-35-6(32930)
विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह।
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी ॥ 5-35-7(32931)
केशिन्युवाच। 5-35-8x(3454)
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ 5-35-8(32932)
विरोचन उवाच। 5-35-9x(3455)
प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः 5-35-9(32933)
केशिन्युवाच। 5-35-10x(3456)
इहैवावां प्रतीक्षाव उपस्थाने विरोचन।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ 5-35-10(32934)
विरोचन उवाच। 5-35-11x(3457)
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ 5-35-11(32935)
विदुर उवाच। 5-35-12x(3458)
अतीतायां च शर्वर्यामुदिते सूर्यमण्डले।
अथाजगाम तं देशं सुधन्वा राजसत्तम।
विरोचनो यत्र विभो केशिन्या सहितः स्थितः ॥ 5-35-12(32936)
सुधन्वा च समागच्छत्प्राह्लादिं केशिनीं तथा।
समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ।
प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः ॥ 5-35-14a` इति होवाच वचनं विरोचनमनुत्तमम्।
आस्स्व तल्पे हि सौवर्णे प्राह्लादे ब्राह्मणस्त्वहम् ॥' 5-35-13(32937)
अन्वालभे हिरण्मयं प्राह्लादे ते वरासनम्।
एकत्वमुपसंपन्नो नत्वासोऽहं त्वया सह ॥ 5-35-15(32938)
विरोचन उवाच। 5-35-16x(3459)
तवार्हते तु फलकं कूर्चं वाप्यथवा बृसी।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ 5-35-16(32939)
सुधन्वोवाच। 5-35-17x(3460)
पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि।
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम् ॥ 5-35-17(32940)
पिता हि ते समासीनमुपासीतैव मामधः।
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥ 5-35-18(32941)
विरोचन उवाच। 5-35-19x(3461)
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः।
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये वुदुः ॥ 5-35-19(32942)
सुधन्वोवाच। 5-35-20x(3462)
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ 5-35-20(32943)
विरोचन उवाच। 5-35-21x(3463)
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते।
न तु देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥ 5-35-21(32944)
सुधन्वोवाच। 5-35-22x(3464)
पितरं ते गमिष्यावः प्राणयोर्विपणे कृपे।
पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् ॥ 5-35-22(32945)
विदुर उवाच। 5-35-23x(3465)
एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा।
विरोचनसुधन्वानौ प्रह्लादौ यत्र तिष्ठति ॥ 5-35-23(32946)
प्रह्लाद उवाच। 5-35-24x(3466)
इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह।
आशीविषाविव क्रुद्धावेकमार्गाविहागतौ ॥ 5-35-24(32947)
किं वै सहैवं चरथो न पुरा चरथः सह।
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ 5-35-25(32948)
विरोचन उवाच। 5-35-26x(3467)
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे।
प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः ॥ 5-35-26(32949)
प्रह्लाद उवाच। 5-35-27x(3468)
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ 5-35-27(32950)
सुधन्वोवाच। 5-35-28x(3469)
उदकं मधुपर्कं च प्रश्नवाचार्पितं मम।
प्रह्लद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः।
किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद्विरोचनः 5-35-28(32951)
प्रह्लाद उवाच। 5-35-29x(3470)
` न कल्माषो न कपिलो न कृष्णो न च लोहितः।
अणीयान्क्षुरधारायाः को धर्मं वक्तुमर्हिति ॥ 5-35-29(32952)
अभिवाद्यो भवान्ब्रह्मन्साक्ष्ये चैव नियोजितः ।'
पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥ 5-35-30(32953)
सुधन्वोवाच। 5-35-31x(3471)
` यदेतत्त्वं न वक्ष्यसि यदि वापि विवक्ष्यसि।
प्रह्लाद प्रश्नमतुलं मूर्धा ते विफलिष्यति ॥ 5-35-31(32954)
विदुर उवाच। 5-35-32x(3472)
आदित्येन सहायान्तं प्रह्लादो हंसमब्रवीत्।
धृतराष्ट्र महाप्राज्ञ सर्वज्ञं सर्वदर्शिनम् ॥ 5-35-32(32955)
प्रह्लाद उवाच। 5-35-33x(3473)
पुत्रो वाऽन्यो भवेद्ब्रह्मन्साक्ष्ये चापि भवेत्स्थितः।
तयोर्विवदतोर्हंस कथं धर्मः प्रवर्तते ॥ 5-35-33(32956)
हंस उवाच।' 5-35-34x(3474)
गां प्रदद्यादौरसाय यद्वान्यत्स्यात्प्रियं धनम्।
द्वयोर्विवदतो राजन्प्रश्नं सत्यं यथा वदेत् ॥ 5-35-34(32957)
प्रह्लाद उवाच। 5-35-35x(3475)
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वाऽनृतम्।
हंस तत्वं च पृच्छामि कियदेनः करोति सः ॥ 5-35-35(32958)
`हंस उवाच 5-35-36x(3476)
पृष्टो धर्मं न विब्रूयाद्गोकर्णशिथिलं चरन्।
धर्माद्भ्रश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः । 5-35-36(32959)
धर्म एतान्संरुजति यथा नद्यस्तु कूलजान्।
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ॥ 5-35-37(32960)
श्रेष्ठोऽर्धं तु हरेत्तत्र भवेत्पादश्च कर्तरि।
पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते ॥ 5-35-38(32961)
अनेना भवति श्रेष्ठो मुच्यन्तेऽपि सभासदः।
कर्तारमेनो गच्छेद्वा निन्द्यो यत्र हि निन्द्यते ॥ 5-35-39(32962)
प्रह्लाद उवाच। 5-35-40x(3477)
मोहाद्वा चैव कामाद्वा मिथ्यावादं यदि ब्रुवन्।
धृतराष्ट्र तत्वं पृच्छामि दुर्विवक्ता तु किं वसेत् ॥ 5-35-40(32963)
हंस उवाच।' 5-35-41x(3478)
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः।
यां च भाराभितप्ताङ्गो दुर्विवक्ता तु तां वसेत् ॥ 5-35-41(32964)
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः।
अमित्रान्भूयसः पश्यन्दुर्विवक्ता तु तां वसेत् ॥ 5-35-42(32965)
यां च रात्रिमभिद्रुग्धो यां च मित्रे प्रियेऽनृते।
सर्वस्वेन च हीनो यो दुर्विवक्ता तु तां वसेत् ॥ 5-35-43(32966)
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ 5-35-44(32967)
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥ 5-35-45(32968)
प्रह्लाद उवाच। 5-35-46x(3479)
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्विद्वरोचन।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ 5-35-46(32969)
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव।
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ 5-35-47(32970)
सुधन्वोवाच। 5-35-48x(3480)
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः।
पुनर्ददामि ते पुत्रं तस्मात्प्रह्लाद दुर्लभम् ॥ 5-35-48(32971)
एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः।
पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥ 5-35-49(32972)
विदुर उवाच। 5-35-50x(3481)
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि।
मा गमः ससुतामात्यो नाशं पुत्रार्थमब्रुवन् ॥ 5-35-50(32973)
न देवा यष्टिमादाय रक्षन्ति पशुपालवत्।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥ 5-35-51(32974)
यथायथा हि पुरुषः कल्याणे कुरुते मनः।
तथातथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥ 5-35-52(32975)
नैनं छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया वर्तमानम्।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ 5-35-53(32976)
मद्यपानं कलहं पूगवैरं
भार्यापत्योरन्तरं ज्ञातिभेदम्।
राजद्विष्टं स्त्रीपुंसयोर्विवादं
वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥ 5-35-54(32977)
सामुद्रिकं वणिजं चोरपूर्वं
शलाकधूर्तं च चिकित्सकं च।
अरिं च मित्रं च कुशीलवं च
नैतान्साक्ष्ये त्वधिकृर्वीत सप्त ॥ 5-35-55(32978)
मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः।
एतानि चत्वार्यभयङ्कराणि
भयं प्रयच्छन्त्ययथाकृतानि ॥ 5-35-56(32979)
अगारदाही गरदः कुण्डाशी सोमविक्रयी।
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥ 5-35-57(32980)
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः।
अतितीक्ष्णश्च कारुश्च नास्तिको वेदनिन्दकः ॥ 5-35-58(32981)
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः ॥ 5-35-59(32982)
तृणोल्कया ज्ञायते जातरूपं
वृत्तेन भद्रो व्यवहारेण साधुः।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः
कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च ॥ 5-35-60(32983)
जरा रूपं हरति हि धैर्यमाशा
मृत्युः प्राणान्धर्मचर्यामसूया।
क्रोधः श्रियं शीलमनार्यसेवा
ह्रियं कामः सर्वमेवाभिमानः । 5-35-61(32984)
न क्रोधिनोऽर्थो न नृशंमस्य मित्रं
क्रृगस्य न स्त्री सुखिनो न विद्या ।
न कामिनो ह्रीरलसस्य न श्रीः
सर्वं तु न स्यादनवस्थितस्य ॥ 5-35-62(32985)
श्रीर्मङ्गलान्प्रभवति प्रागल्भ्यात्संप्रवर्धते।
दाक्ष्यात्तु कुरुते मूलं संयमान्प्रतितिष्ठति ॥ 5-35-63(32986)
अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च ॥ 5-35-64(32987)
एतान्गुणांस्तत महानुभावा-
नेको गुणः संश्रयते प्रसह्य
राजा यदा सत्कुरुते मनुष्यं
सर्वान्गुणानेप गुणोतिभाति ॥ 5-35-65(32988)
अष्टौ नृपेमानि मनुष्यलोके
स्वर्गस्य लोकस्य निदर्शनानि।
चत्वार्येपामन्ववेतानि सद्भि-
श्चत्वारि चैपामनुयान्ति सन्तः ॥ 5-35-66(32989)
यज्ञो दानमध्ययनं तपश्च
चत्वार्येतान्यन्ववेतानि सद्भिः।
दमः सत्यमार्जवमानृशंस्यं
चत्वार्येतान्यनुयान्ति सन्तः ॥ 5-35-67(32990)
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ 5-35-68(32991)
तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते।
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति ॥ 5-35-69(32992)
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम्।
नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनानुविद्धम् ॥ 5-35-70(32993)
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्।
शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः ॥ 5-35-71(32994)
पापं कुर्वन्पापकीर्तिः पापमेवाश्रुते फलम्।
पुण्यं कुर्वन्पापकीर्तिः पुण्यमत्यन्तमश्रुते ॥ 5-35-72(32995)
तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः।
पापं प्रज्ञां नाशयति क्रियमाणं पुःन पुःनः ॥ 5-35-73(32996)
वृद्धप्रज्ञः पापमेव नित्यमारभते नरः।
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ॥ 5-35-74(32997)
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः।
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति।
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥ 5-35-75(32998)
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः।
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥ 5-35-76(32999)
अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा।
नकृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥ 5-35-77(33000)
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ 5-35-78(33001)
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत्।
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत्॥ 5-35-79(33002)
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत्।
यावज्जीवं तु तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ 5-35-80(33003)
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्।
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥ 5-35-81(33004)
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ 5-35-82(33005)
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्।
अन्तः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ 5-35-83(33006)
ऋषीणां च नदीनां च कुलानां च महात्मनाम्।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ 5-35-84(33007)
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥ 5-35-85(33008)
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ 5-35-86(33009)
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च॥ 5-35-87(33010)
दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा।
कर्मे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ 5-35-88(33011)
सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ ।
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ॥ 5-35-89(33012)

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि पञ्चत्रिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-35-2 आर्जवं अवैषम्यम् ॥ 5-35-10 इहस्थाने उपस्थाने मामुपस्थातुम्। वां दैत्यब्राह्मणौ अहं पश्येयम् ॥ 5-35-13 समागच्छत् उभयोः संमुखं अगच्छत् ॥ 5-35-14 विरोचनेन सौवर्णे पीठे मया सह उपवेश्यतामिति प्रार्थितः सुधन्वा उवाच ॥ 5-35-15 अन्वालभे स्पृशाम्येव ॥ 5-35-16 फलकं काष्ठपीठं। कूर्चं। बृसी वर्तितदर्भमयं पीठं वा। तव अर्हते योग्यं भवति ॥ 5-35-18 उपासीत सेवते। अधः स्थित्वेति शेषः ॥ 5-35-19 प्रश्नं आवयोः कः श्रेष्ठ इति प्रश्नम्। ये विदुस्तान् पृच्छाव ॥ 5-35-24 सह न चरितं वैरात् ॥ 5-35-27 पीवरी पुष्टा। कुता मधुपर्कार्थं उपकल्पिता ॥ 5-35-30 नियोजितः अहमिति शेषः ॥ 5-35-39 पगच्छेदिति ङo पाठः ॥ 5-35-40 किं वसेत् कथं वसेत् ॥ 5-35-41 अधिविन्ना कृतसपत्नीका स्त्री तां रात्रिं वसेत्तद्वद्दुःखं प्राप्नुयात् 5-35-44 पञ्च पूर्वजान् पश्वनृते अजादिपशुहिंसार्थमनृते उक्ते सति हन्ति नाशयति परलोकात् च्यावयति। एवमुत्तरत्र ॥ 5-35-46 अङ्गिराः सुधन्वनः पिता। त्वत् त्वत्तः ॥ 5-35-49 पादप्रक्षालनं हरिद्रया पादधावनम्। कुमार्याः केशिन्याः । विवाहे दंपत्योः परस्परं हरिद्रया पादधावनं कुर्वन्तीति प्रसिद्धम्। अस्यैव भार्या केशिनी भवत्वित्यर्थः ॥ 5-35-50 अब्रुवन्सत्यमिति शेषः ॥ 5-35-53 छन्दांसि वेदाः 5-35-54 अन्तरं वियोगम्। विवादं वैरप्रवर्तनम् ॥ 5-35- 55 सामुद्रिकं हस्तरेखादिपरीक्षकम्। वणिजं चोरपूर्वं पूर्वं चोरः पश्चाद्विणिक्रभूतः तं कूटतुलावन्तं वा। शलाकधूर्तं शलाकया पाशादिना वा शकुनादिकमुक्त्वा योऽन्यान् वञ्चयति तम्। अरिं विपरीतसाक्ष्यभयात्। मित्रं परीक्षकाणमविश्वासात्। कुशीवलं कुत्सितं शीलं वाति अनुसरतीति तम्। नर्तकीदासं विटोन्मत्तादिकं वा । 5-35-53 सत्कर्मद्वारापि तस्य साधुत्वं न मन्तव्यमित्याह मानेति। मानः लोकेषु उत्कर्षः तदर्थान्यग्निहोत्रादीनि भयदानीत्यर्थः। मौनं ध्यानम् ॥ 5-35-57 कुण्डाशी भगभक्षः । जीवति भर्तरि जाराज्जातः कुण्डस्तदन्नाशी। सोमविक्रयी प्रसिद्धः। पर्वकारः शरकृत् आयुधमात्रकर्तेत्यर्थः। सूची सूचको नक्षत्रादीनां परदोषाणां च। ज्यौतिषिकः पिशुनो वा । 5-35-58 कारुः अशुचिः। नास्तिकः परलोकादिद्वेषी ॥ 5-35-59 स्रुवप्रग्रहणो ग्रामपुरोहितः। व्रात्यः अतीतोपनयनकालः पतितसावित्रीको वा। कीनाशः कर्षकः। आत्मवान्समर्थोपि यो रक्षेत्युक्तो हिंस्यात् ॥ 5-35-60 तृणोल्कया तृणज्वालया जातरूपं रूपवद्वस्त ज्ञायतेऽन्धकारे सति। भद्रे वृषः धर्म इतियावत्। वृत्तेन शीलेन सोस्ति नास्तीति ज्ञायते। व्यवहारेण अहिंसादिप्रधानेन । कृच्छ्रेषु दुर्भिक्षादिसंकटेषु ॥ 5-35-63 श्रीरिति। दाक्ष्यं शीघ्रकारित्वम् ॥ 5-35-65 एष गुणो राजसत्कारः॥ 5-35-66 इमानि वक्ष्यमाणानि। अन्ववेतानि नित्यसंवद्धानि। अनुयान्ति यत्रेन भजन्ति॥ 5-35-71 रूपं विनयमुद्रा। ध्रुतं अध्ययनम्। विद्या देवताद्युपासनम्। चित्रभाष्यं युक्तियुक्तं वचनम् ॥ 5-35-76 दन्दशूको मर्मच्छेत्ता। निष्ठुरः अप्रियवाक्। नचिरात् शीघ्रम् ॥ 5-35-77 नकृच्छ्रं सुखम् ॥ 5-35-78 आगमयति आनयति ॥ 5-35-79 वर्षा इत्यत्यन्तसंयोगे द्वितीया ॥ 5-35-81 गतपारं प्राप्ततत्त्वम् ॥ 5-35-82 परिपाकसुखं कर्म त्वत्पुत्रा न कुर्वन्ति अन्यायेन च सुखं लिप्सन्ति तत्तु विपरीतमेवेत्याह धनेनेति ॥ 5-35-83 आत्मवतां जितचित्तानाम्। प्रच्छन्नपापो दुर्योधनः ।


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.